मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १०

संहिता

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।
पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥

पदपाठः

यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । विऽअ॑श्वः । ऋषिः॑ । यत् । वा॒म् । दी॒र्घऽत॑माः । जु॒हाव॑ ।
पृथी॑ । यत् । वा॒म् । वै॒न्यः । सद॑नेषु । ए॒व । इत् । अतः॑ । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥

सायणभाष्यम्

हे अश्विनौ वां युवां कक्षीवानृषिः यद्यदा जुहाव तुष्टाव उतापिच व्यश्वः एतत्संज्ञऋषिश्च यद्यदा जुहाव यद्यदाच वां युवां दीर्घतमा- ऋषिः जुहाव सदनेषु यज्ञगृहेषु वैन्योवेनस्य पुत्रः पृथी एतत्संज्ञोराजर्षिः वां युवां यद्यथा जुहाव तुष्टाव एवेत् एवमेव स्तुवतोमम अतः इदं स्तोत्रं इदम् शब्दात् द्वितीयार्थेतसिः हे अशिनौ चेतयेथां जानीतम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१