मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ११

संहिता

या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।
व॒र्तिस्तो॒काय॒ तन॑याय यातम् ॥

पदपाठः

या॒तम् । छ॒र्दिः॒ऽपौ । उ॒त । नः॒ । प॒रः॒ऽपा । भू॒तम् । ज॒ग॒त्ऽपौ । उ॒त । नः॒ । त॒नू॒ऽपा ।
व॒र्तिः । तो॒काय॑ । तन॑याय । या॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ छर्दिष्पौ छर्दिरिति गृहनाम तस्यास्मदीयस्य पालकौ सन्तौ युवां यातमागच्छतम् । उतापिच नोस्माकं परस्पा परं अतिशयेन पालकौ भूतं भवतं पारस्करादित्वात्सुट् । तथा जगत्पौ सर्वस्य जगतः जङ्गमस्य प्राणिजातस्यास्मदीयस्य पालकौ भवतम् । उतापिच नोस्माकं तनूपा तनूनां शरीराणां तनयानां वा पालकौ भवतम् एतत्सर्वार्थं तोकाय तोकस्य पुत्रस्य तनयाय तनयस्य पौत्रस्य वास्मदी- यस्य वर्तिगृहं यातं गच्छतम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२