मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १२

संहिता

यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थ॒ः समो॑कसा ।
यदा॑दि॒त्येभि॑रृ॒भुभि॑ः स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥

पदपाठः

यत् । इन्द्रे॑ण । स॒रथ॑म् । या॒थः । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थः । सम्ऽओ॑कसा ।
यत् । आ॒दि॒त्येभिः॑ । ऋ॒भुऽभिः॑ । स॒ऽजोष॑सा । यत् । वा॒ । विष्णोः॑ । वि॒ऽक्रम॑णेषु । तिष्ठ॑थः ॥

सायणभाष्यम्

हे अश्विनौ इन्द्रेणसह सरथं समानमेकंरथं आस्थाय यद्यदि याथोगच्छथः यद्वा यदिवा वायुना सह समोकसा समाननिवासौ भवथः यद्यदिवा आदित्येभिः अदितेः पुत्रैः मित्रादिभिः ऋभुभिश्च सजोषसा सहप्रीयमाणौ वर्तेथे यद्वा यदिवा विष्णोर्विक्रमणेषु विष्णुना देवेन विक्रान्तेषु त्रिषु लोकेषु तिष्ठथः अतः सर्वस्मादपि स्थानादागच्छतमितिशेषः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२