मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १३

संहिता

यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।
यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥

पदपाठः

यत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ।
यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सहः॑ । तत् । श्रेष्ठ॑म् । अ॒श्विनोः॑ । अवः॑ ॥

सायणभाष्यम्

यद्यदा अहमश्विनौ वाजसातये संग्रामार्थं हुवेय आह्वयेय अद्येदानीं तावागच्छतमिति शेषः । पृत्सु पृतनासु संग्रामेषु तुर्वणे शत्रूणां हिंसने यत्सहः शत्रूणामभिभवितृ रक्षणं अश्विनोः तदवोरक्षणं श्रेष्ठं प्रशस्यतमं अतस्तावाह्वयामीतिभावः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२