मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १४

संहिता

आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।
इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥

पदपाठः

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ।
इ॒मे । सोमा॑सः । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥

सायणभाष्यम्

हे अशिनौ नूनमवश्यं आयातमागच्छतम् इमा इमानि पुरोवर्तीनि हव्यानि हवींषि वां युवाभ्यां हिता हितानि यद्वा युवयोरर्थं विहि- तानि कृतानि इमेच सोमासः सोमाः तुर्वशे यदौ च वर्तमानाः वां युवाभ्यां युवयोरथे संस्कृता वा अधिः सप्तम्यर्थानुवादकः । अथ अपिच कण्वेषु कण्वपुत्रेषु अस्मासु च इमे सोमाः वां युवाभ्यां दत्ताः अतआयातमित्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२