मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १५

संहिता

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् ।
तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥

पदपाठः

यत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ।
तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॒ । छ॒र्दिः । व॒त्साय॑ । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे नासत्यावश्विनौ पराके दूरदेशे अर्वाके समीपेच यद्युवयोः संबन्धि भेषजं रोगोपशमनकारणमस्ति तेन भेषजेन सहितं छर्दिर्गृहं हे प्रचेतसा प्रकृष्टज्ञानावश्विनौ विमदाय लुप्तोपममेतत् एतत्संज्ञायेव ऋषये वत्साय नूनमवश्यं यच्छ्तं प्रयच्छ्तम् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२