मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १८

संहिता

यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।
आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥

पदपाठः

यत् । उ॒षः॒ । यासि॑ । भा॒नुना॑ । सम् । सूर्ये॑ण । रो॒च॒से॒ ।
आ । ह॒ । अ॒यम् । अ॒श्विनोः॑ । रथः॑ । व॒र्तिः । या॒ति॒ । नृ॒ऽपाय्य॑म् ॥

सायणभाष्यम्

हे उषः भानुना दीप्त्यासह यद्यदा यासि गच्छसि तदानीं सूर्येण संरोचसे सम्यग्दीप्यसे । अपिच तस्मिन्समये अश्विनोरयं रथः नृपाय्यं यत् नृभिर्नेतृभिरृत्विग्भिः पालनीयं वर्तिर्यज्ञगृहं आयाति हं आगच्छति खलु ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३