मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १९

संहिता

यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।
यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥

पदपाठः

यत् । आऽपी॑तासः । अं॒शवः॑ । गावः॑ । न । दु॒ह्रे । ऊध॑ऽभिः ।
यत् । वा॒ । वाणीः॑ । अनू॑षत । प्र । दे॒व॒ऽयन्तः॑ । अ॒श्विना॑ ॥

सायणभाष्यम्

यद्यदा आपीतासः आसमन्तात्पीतवर्णा अंशवः सोमलताः ऊधभिः गावोन गावइव दुह्रे रसं दुहते लोपस्तआत्मनेपदेष्विति तलोपः बहुलंछन्दसीतिरुडागमः । यद्वा यदाच देवयन्तोदेवान्कामयमानाः ऋत्विजः वाणीर्वाचः स्तुतीः अनूषत अस्तुवन् अकुर्वन्नित्यर्थः । तदा अश्विना अश्विनौ देवौ प्रावतं प्ररक्षतम् ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३