मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०, ऋक् २

संहिता

यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् ।
बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥

पदपाठः

यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ।
बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥

सायणभाष्यम्

हे अश्विनौ यद्वा यथावा येन प्रकारेण मनवे प्रजापतये यजमानाय यज्ञं संमिमिक्षथुः संसिक्तवन्तौ युवां कृतवन्तौ एवेत् एवमेव काण्वस्य कण्वगोत्रस्य ममयज्ञं कर्तुं बोधतमवगच्छतम् । अपिच बृहस्पतिं बृहतां देवानां पतिं देवपुरोहितं विश्वान्सर्वान्मित्रादीन्दे- वांश्च इन्द्राविष्णू च आशुहेषसा शीघ्राश्वौ यद्वा हेषृशब्दे शीघ्रं सर्वत्र शब्द्यमानौ स्तूयमानावश्विनौ च अहं हुवे आह्वये ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४