मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०, ऋक् ३

संहिता

त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।
ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥

पदपाठः

त्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता ।
ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु॑ । अधि॑ । आप्य॑म् ॥

सायणभाष्यम्

त्या त्यौ पूर्वोक्तगुणावश्विनौ नु क्षिप्रमहं हुवे आह्वयामि कीदृशौ सुदंससा शोभनकर्माणौ गृभे गृहे ग्रहणाय अस्माभिर्दत्तानां हविषां स्वीकरणाय अस्मभ्यं धनदानाय वा कृता कृतौ प्रादुर्भूतौ देवेषु मध्ये अधिः सप्तम्यर्थानुवादी ययोरश्विनोः आप्यमाप्तव्यं नोस्माकं सख्यं सखित्वं प्रास्ति प्रभवति उत्कर्षेण वर्तते तौ हुवइत्यन्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४