मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०, ऋक् ४

संहिता

ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रयः॑ ।
ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥

पदपाठः

ययोः॑ । अधि॑ । प्र । य॒ज्ञाः । अ॒सू॒रे । सन्ति॑ । सू॒रयः॑ ।
ता । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसा । स्व॒धाभिः॑ । या । पिब॑तः । सो॒म्यम् । मधु॑ ॥

सायणभाष्यम्

ययोरश्विनोरध्युपरि यज्ञाः ज्योतिष्टोमादयः सर्वेयागाः प्रसन्ति प्रभवन्ति छिन्नस्य यज्ञशिरसोश्विभ्यांसन्धानात् । तथाच-यज्ञशिरसोछि- द्यते इत्युपक्रम्य तैत्तिरीयकम्-तावेतद्यज्ञशिरःप्रत्यधत्ताम् यदाश्विनोगृत्द्यते यज्ञस्यनिष्कृत्याइति । असूरे स्तोतृरहितेपि देशे ययोश्च सूरयः स्तोतारः सन्ति तावश्विनौ अध्वरस्य हिंसाप्रत्यवायरहितस्य यज्ञस्य ज्योतिष्टोमादेः प्रचेतसा प्रकृष्टज्ञातारौ स्वधाभिः बलहेतुभिः स्तुतिभिः आह्वयामीतिशेषः या यावश्विनौ सोम्यं सोममयं मधु मधुरं सोमरसं पिबतः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४