मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०, ऋक् ६

संहिता

यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।
यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥

पदपाठः

यत् । अ॒न्तरि॑क्षे । पत॑थः । पु॒रु॒ऽभु॒जा॒ । यत् । वा॒ । इ॒मे इति॑ । रोद॑सी॒ इति॑ । अनु॑ ।
यत् । वा॒ । स्व॒धाभिः॑ । अ॒धि॒ऽतिष्ठ॑थः । रथ॑म् । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हेपुरुभुजा बहूनां पालयितारौ बहुलहविषोभोक्तारौ वा यद्यदि अन्तरिक्षे पतथोगच्छथः यद्वा यदिवा इमे रोदसी द्यावापृथिव्यावन् अनुलक्ष्य गच्छ्थः यद्वा यदिवा स्वधाभिः आत्मीयैस्तेजोभिर्बलैर्वा सार्धं रथं अधितिष्ठथः रथेउपविशथः अधिशीङ्स्थासामिति आधारस्य कर्मसंज्ञा । अतः सर्वस्मात्स्थानात् हे अश्विनौ आयातमागच्छतम् ॥ ६ ॥

त्वमग्नेइति दशर्चं षष्ठं सूक्तं कण्वगोत्रस्य वत्सस्यार्षं आग्नेयम् आद्या प्रतिष्ठागायत्री अष्टकसप्तकषट्कोपेतत्वात् द्वितीयावर्धमाना षट्कसप्तकाष्टकोपेतत्वात् । तथाचोक्तं-षट्कसप्तकाष्टकैर्वर्धमाना विपरीताप्रतिष्ठेति । दशमीत्रिष्टुप् शिष्टागायत्र्यः । तथाचानुक्रान्तम्- त्वमग्नेदशवत्सआग्नेयेगायत्रे अन्त्यात्रिष्टुप् आद्याप्रतिष्ठोपाद्यावर्धमानेति । प्रातरनुवाकस्याग्नेयेक्रतौ गायत्रेछन्दस्याश्विनशस्त्रे च उत्तमाव- र्जमेतत्सूक्तं सूत्र्यतेहि-त्वमग्नेव्रतपाइत्युत्तमामुद्धरेदिति । व्रातपत्यां त्वमग्नेव्रतपाइति आद्यानुवाक्या । सूत्रितञ्च-त्वमग्ने व्रतपाअसि यद्वोवयंप्रमिनामव्रतानीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४