मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् १

संहिता

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।
त्वं य॒ज्ञेष्वीड्य॑ः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ ।
त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥

सायणभाष्यम्

हे अग्ने देवोद्योतमानस्त्वं मर्त्येष्वा मनुष्येषु च आदेवेषु च मध्ये व्रतपाअसि व्रतानां कर्मणां रक्षिता भवसि अतःकारणात् यज्ञेषु त्वमीड्यः स्तुत्योसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५