मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् २

संहिता

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य ।
अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥

पदपाठः

त्वम् । अ॒सि॒ । प्र॒ऽशस्यः॑ । वि॒दथे॑षु । स॒ह॒न्त्य॒ ।
अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ॥

सायणभाष्यम्

हे सहन्त्य शत्रूणामभिभवितरग्नेविदथेषु यज्ञेषु त्वं प्रशस्यः स्तुत्योसि अध्वराणां यागानां रथीर्नेताच भवसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५