मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् ३

संहिता

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।
अदे॑वीरग्ने॒ अरा॑तीः ॥

पदपाठः

सः । त्वम् । अ॒स्मत् । अप॑ । द्विषः॑ । यु॒यो॒धि । जा॒त॒ऽवे॒दः॒ ।
अदे॑वीः । अ॒ग्ने॒ । अरा॑तीः ॥

सायणभाष्यम्

हे जातवेदः जातानां वेदितरग्ने सपूर्वोक्तगुणस्त्वं अस्मदस्मत्तः द्विषोद्वेष्टृन् शत्रून् अपयुयोधि पृथक्कुरु । अदेवीरासुरीः अरातीः शत्रुसेनाश्च पृथक्कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५