मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् ६

संहिता

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।
अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥

पदपाठः

विप्र॑म् । विप्रा॑सः । अव॑से । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

विप्रासोमेधाविनः मर्तासोमनुष्यावयं विप्रं मेधाविनं देवं दानादिगुणयुक्तमग्निं अवसे हविर्भिः तर्पयितुं ऊतये अस्माकं रक्षणार्थं च गीर्भिः स्तुतिभिः हवामहे आह्वयामहे ॥ ६ ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने आतेवत्सइति वैकल्पिकःस्तोत्रियस्तृचः सूत्रितञ्च-आतेवत्सोमनोयमदाग्नेस्थूरंरयिंभरेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६