मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् ७

संहिता

आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।
अग्ने॒ त्वांका॑मया गि॒रा ॥

पदपाठः

आ । ते॒ । व॒त्सः । मनः॑ । य॒म॒त् । प॒र॒मात् । चि॒त् । स॒धऽस्था॑त् ।
अग्ने॑ । त्वाम्ऽका॑मया । गि॒रा ॥

सायणभाष्यम्

हे अग्ने वत्स ऋषिः ते तव मनः परमाच्चित् उत्कृष्टादपि सधस्थानात् सहस्थात् द्युलोकात् आयमत् आयमयति । केन साधनेन त्वां कामया त्वामभिलषंत्या गिरा स्तुत्या ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६