मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् ८

संहिता

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥

पदपाठः

पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।
स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे अग्ने पुरुत्रा बहुषु देशेषु त्वं सदृङ्ङसि समानद्रष्टा भवसि हि पूरणः अत एव विश्वाः सर्वा विशः प्रजाः अनु अनुलक्ष्य प्रभुरीश्वरो भवसि । ईदृशं त्वा त्वां समप्सु सङ्ग्रामेषु रक्षणार्थं हवामहे आह्वयामहे ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६