मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् ९

संहिता

स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।
वाजे॑षु चि॒त्ररा॑धसम् ॥

पदपाठः

स॒मत्ऽसु॑ । अ॒ग्निम् । अव॑से । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ।
वाजे॑षु । चि॒त्रऽरा॑धसम् ॥

सायणभाष्यम्

समत्सु सहमदनेषु सङ्ग्रामेषु वाजयन्तो बलमिच्छन्तो वयं अवसे रक्षणार्थमग्निं हवामहे कीदृशं वाजेषु सङ्ग्रामेषु चित्रराधसं चायनी- यधनम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६