मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ११, ऋक् १०

संहिता

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥

पदपाठः

प्र॒त्नः । हि । क॒म् । ईड्यः॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्यः॑ । च॒ । सत्सि॑ ।
स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व॑म् । पि॒प्रय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥

सायणभाष्यम्

हे अग्ने अध्वरेषु यज्ञेषु ईड्यः स्तुत्यस्त्वं प्रत्नोहि चिरन्तनः खलु भवसि कमितिपूरकः तथा सनात् चिरकालादारभ्य होता देवानामा- ह्वाता च सन् नव्यः स्तुत्यश्च सन् सत्सि यज्ञेषु निषीदसि । हे अग्ने देवानां हविर्वहंस्त्वं स्वां च तन्वं आत्मीयं च शरीरं पिप्रयस्व त्वदीयेन हविर्भागेन तर्पय अस्मभ्यं स्तोतृभ्यश्च सौभगं सुभगत्वं च आ यजस्व प्रदेहि सुभगशब्दाद्भावार्थे सुभगान्मन्त्र इत्युद्गात्रादिषु पाठादङ्प्रत्ययः ॥ १० ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थ- प्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके अष्टमोऽध्यायः ॥ ८ ॥

॥ इति पञ्चमाष्टकः समाप्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६