मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १

संहिता

य इ॑न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति ।
येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥

पदपाठः

यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति ।
येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥

इत्थंपंचमाष्टकं व्याख्यायेदानीं ऋषिच्छन्दोदेवताविनियोगप्रदर्शनपुरःसरं षष्ठस्य प्रथमोध्यायोव्याख्यातुमारभ्यते । अष्टममण्डलस्य द्वितीयेनुवाके षट्सूक्तानि जातानि । यइन्द्रेति त्रयस्त्रिंशदृचं सप्तमं सूक्तं कण्वगोत्रस्य पर्वताख्यस्यार्षं औष्णिहमैन्द्रम् । तथाचानुक्तांतम्-यइन्द्रत्रयस्त्रिंशत्पर्वतऔष्णिहंत्विति । महाव्रतेनिष्केवल्ये औष्णिहतृचाशीतौ इदमादिके द्वे सूक्ते । तथैवपंचमारण्यकेसूत्र्यते-औष्णिहीतृचाशीतिर्यइन्द्रसोमपातमइति सूक्ते इति । दशमेहनि निष्केवल्ये आदितः षळृच: शंसनीयाः । सूत्र्यतेहि-यइंद्रसोमपातमइति षळुष्णिह- इति । आभिल्पविकेषूक्थॆषु तृतीयसवने ब्रह्मशस्त्रे आद्यस्तृचोवैकल्पिकोनुरूपः सूत्रितंच- यइन्द्रसोमपातमएन्द्रनोगधीति । तृतीयेपर्यायेच्छावा-कशस्त्रेप्ययमेवतृचॊनुरूपः सूत्रितंच-इन्द्रःसुतेषुसोमेषु यइन्द्रसोमपातमइति ।

हे इन्द्र यस्त्वं सोमपातमः अतिशयेन सोमस्य पाता हे शविष्ठ बलवत्तम शवइति बलनाम तस्माद्विनंतादातिशायनिकइष्ठन् विन्मतोर्लुक् टिलोपः हे ईदृशेन्द्र तस्य तव सोमपानजनितोयोमदश्चेतति सम्यग्जानाति वृत्रवधादीनि कार्याणि कर्तुं यइत्यस्य चेततीत्यनेनापि संबंधात् यद्वऋत्तान्नित्यमिति तिङ्न निहन्यते । अथवैतदेवंवाक्यम् हे बलवत्तमेन्द्र सोमपातमः सोमस्यपातृतमोयस्त्वं मदः सोमैर्मादयितव्यः तर्पणीयः सन् चेतति पुरुषव्यत्ययः चेतसि सम्यग्जानासि मदोनुपसर्गे इति मदेः कर्मण्यप् । येन सोमपानजनितेन मदेन अत्रिणमत्तारं राक्षसादिकं निहंसि निकृष्टां हिंसां प्रापयसि तं मदं तादृङ्दोपेतं त्वां वा ईमहे याञ्चाकर्मायम् याचामहे । यद्वा ई गतौ दैवादिकः छांदसोविकरणस्य लुक् ईयामहे उपगच्छामः स्तुतिभिः संभजामहइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः