मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २

संहिता

येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् ।
येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥

पदपाठः

येन॑ । दश॑ऽग्वम् । अध्रि॑ऽगुम् । वे॒पय॑न्तम् । स्वः॑ऽनरम् ।
येन॑ । स॒मु॒द्रम् । आवि॑थ । तम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र येन सोमपानजनितेन मदेन दशग्वं ये दशभिर्मासैः सत्रासनं परिसमाप्य निरगमन् ते दशग्वा अंगिरसः । तेषामन्यतमं अध्रिगुं अधृतगमनं अनिवारितगतिं एतत्संज्ञंच ऋषिं वेपयंतं तमांसि वर्जयंतं स्वर्णरं सर्वस्य नेतारं सूर्यं च आविथ वृत्रादेर्दस्योरपनयनेन ररक्षिथ । येनच मदेन समुद्रमुदधिं अंतरिक्षं वा आविथ ररक्षिथ त्वदीयं मदं तद्वंतं त्वां वा ईमहे याचामहे । मदे हि सति हृष्टःसन् इन्द्रोबहुधनं प्रयच्छति अतस्तत्कारणस्य मदस्य याञ्चोपपन्ना ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः