मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ३

संहिता

येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑ ।
पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥

पदपाठः

येन॑ । सिन्धु॑म् । म॒हीः । अ॒पः । रथा॑न्ऽइव । प्र॒ऽचो॒दयः॑ ।
पन्था॑म् । ऋ॒तस्य॑ । यात॑वे । तम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र महीर्महतीरपः वृष्टचुदकानि सिन्धुं स्यन्दनशीलांनदीं समुद्रं वा प्रति येन सोमपानजन्येन मदेन प्रचोदयः प्रेरयसि । तत्रदृष्टान्तः-रथाँइव यया रथिनोरथान् स्वाभिलषितदेशगमनाय प्रेरयन्ति तद्वत् ऋतस्य यज्ञस्य पन्थां पन्थानं मार्गं यातवे यातुं प्राप्तुं तं मदमीमहे याचामहे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः