इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।
येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥
इ॒मम् । स्तोम॑म् । अ॒भिष्ट॑ये । घृ॒तम् । न । पू॒तम् । अ॒द्रि॒ऽवः॒ ।
येन॑ । नु । स॒द्यः । ओज॑सा । व॒वक्षि॑थ ॥
हे अद्रिवोवज्रवन्निन्द्र घृतंन घृतमिव मन्त्रपूतमाज्यमिवपूतंशुद्धं इममस्मदीयं स्तोमं स्तोत्रं बुध्यस्वेतिशेषः । किमर्थं अभिष्टये अभिप्राध्यै इष्टस्य धनादेरस्माकं लाभायेत्यर्थः । येन स्तोत्रेण स्तूयमानः सन् ओजसात्मीयेन बलेन सद्यस्तदानीमेव स्तुतिसमयएव नु क्षिप्रं ववक्षिथास्मान्वहसि अभिलषितं प्रापयसि इमं स्तोममित्यन्वयः ॥ ४ ॥