मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ५

संहिता

इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।
इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥

पदपाठः

इ॒मम् । जु॒ष॒स्व॒ । गि॒र्व॒णः॒ । स॒मु॒द्रःऽइ॑व । पि॒न्व॒ते॒ ।
इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । व॒वक्षि॑थ ॥

सायणभाष्यम्

हे गिर्वणोगिरां स्तुतीनां संभक्तः यद्वा स्तुतिभिः संभजनीयेन्द्र इमं स्तोमं मया क्रियमाणं जुषस्व सेवस्व सच स्तोमः समुद्रइव समुद्रोयथा चन्द्रोदयं प्राप्य पिन्वते वर्धते अभिधेयस्येन्द्रगुणगणस्याधिक्येन तत्प्रतिपादिकास्तुतिरपि विस्तृता भवतीत्यर्थः । पूर्वस्यामृचि ववक्षिथेत्यनेन युक्तो येनेतिशब्दोत्रापि सामर्थ्यात्तेन संबध्यते अतएवास्य तिड्डःतिङइति निघाताभावः । हे इंद्र येन स्तोमेन हेतुना विश्वाभिर्व्याप्ताभिरूतिभीर- क्षाभिः ववक्षिथ वहसि श्रेयांस्यस्मान्प्रापयसि वहेःसन्नन्ताल्लिटि अमन्त्रइति निषेधादामभावे थलि लिटि रूपमेतत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः