मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ६

संहिता

यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे ।
दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥

पदपाठः

यः । नः॒ । दे॒वः । प॒रा॒ऽवतः॑ । स॒खि॒ऽत्व॒नाय॑ । म॒म॒हे ।
दि॒वः । न । वृ॒ष्टिम् । प्र॒थय॑न् । व॒वक्षि॑थ ॥

सायणभाष्यम्

योनोदेवो दानादिगुणयुक्तइंद्रः पराक्तः परावतात् दूरात् द्युलोकादागत्य नोस्माकं सखित्वनाय सखित्वाय मामहे धनानि प्रददौ मंहतेर्दानक- र्मणएतद्रूपम् । यद्वा अस्माभिः पूज्यते महपूजायाम् अस्माच्छान्दसः कर्मणिलिट् । उत्तरार्धर्चः प्रत्यक्षकृतः हे इन्द्र दिवोन वृष्टिं दिवः सकाशात् वृष्टिमिव प्रथयन् अस्मदीयानि धनानि विस्तारयन् यस्त्वं ववक्षिथ अस्मान्वोदुमिच्छसि तादृशं त्वां स्तौमीति शेषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः