मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ७

संहिता

व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः ।
यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥

पदपाठः

व॒व॒क्षुः । अ॒स्य॒ । के॒तवः॑ । उ॒त । वज्रः॑ । गभ॑स्त्योः ।
यत् । सूर्यः॑ । न । रोद॑सी॒ इति॑ । अव॑र्धयत् ॥

सायणभाष्यम्

अस्येन्द्रस्य केतवः प्रज्ञानानि अस्मतूस्तुतिविषयाणि यद्वा रथे उत्क्षिप्ताः पताकाः केतवः ववक्षुरवहन् अस्मान् श्रेयांसि प्रापयन् । उतापिच ग-भस्त्योः बाहुनामैतत् इन्द्रस्य हस्तयोरवस्थितोवज्रश्र्वावहत् यद्यदा अयमिन्द्रः सूर्योन सर्वस्य प्रेरकआदित्यइव रोदसी द्यावापृथिव्यौ वृष्टचादिप्र- दानेनावर्धयत् तदानीमित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः