मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ९

संहिता

इन्द्र॒ः सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।
अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥

पदपाठः

इन्द्रः॑ । सूर्य॑स्य । र॒श्मिऽभिः॑ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ।
अ॒ग्निः । वना॑ऽइव । स॒स॒हिः । प्र । व॒वृ॒धे॒ ॥

सायणभाष्यम्

अयमिन्द्रः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य रश्मिभिः किरणैः करणभूतैः अर्शसानं अर्तेर्गुणः शुट्चेति ऋगतावित्यस्मादसानच्प्रत्ययः शुडागम- श्च अयं केवलोप्यर्तिराङ्पूर्वार्थोद्रष्टव्यः आङ्पूर्वश्च बाधनेवर्तते यथा आर्तिमार्तोरिति । अर्शसानं बाधमानं मन्देहादिकमसुरं न्योषति नितरांदह- ति उषदाहे । तत्रदृष्टांतः-अन्गिर्वनेव यथा वनान्यरण्यानि दावानलोभस्मसात्करोति तद्वत् । एवं सासहिः शत्रूणामभिभवनशीलइन्द्रः प्रवावृधे प्रकर्षेण वर्धते ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः