मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १०

संहिता

इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।
स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥

पदपाठः

इ॒यम् । ते॒ । ऋ॒त्विय॑ऽवती । धी॒तिः । ए॒ति॒ । नवी॑यसी ।
स॒प॒र्यन्ती॑ । पु॒रु॒ऽप्रि॒या । मिमी॑ते । इत् ॥

सायणभाष्यम्

हे इन्द्र ते त्वां इयं पुरोवर्तिनि मया क्रियमाणा धीतिः स्तुतिः एति गच्छति कीदृशी ऋत्वियावती ऋतौ वसंतादिकाले अनुष्ठेयं यज्ञकर्म ऋ- त्वियं तद्वती नवीयसीअतिशयेनाभिनवा स्तुतिः सपर्यंती पूजयन्ती पुरुप्रिया पुरु बहुलं प्रीणयित्रीसती मिमीतइत् इन्द्रगतानूगुणान् परिच्छिनत्येव माहात्मयं प्रख्यापयत्येव सेयमित्यन्वयः । अनुमायमानेन यच्छब्देनच योगात् मिमीत इत्यस्य निघाताभावः । यद्वा सपर्यन्ती पुरुप्रियेतीदमपि एतीत्यनेन संबंधनीयं अतः पूर्वपदस्य भिन्नवाक्यस्थत्वात् समानवाक्ये युष्म्दस्मदादेशावक्तव्याइति वचनात्तदपेक्षया निघाताभावे सत्यभ्यस्ताना- मादिरित्याद्युदात्तत्वम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः