मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ११

संहिता

गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।
स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥

पदपाठः

गर्भः॑ । य॒ज्ञस्य॑ । दे॒व॒ऽयुः । क्रतु॑म् । पु॒नी॒ते॒ । आ॒नु॒षक् ।
स्तोमैः॑ । इन्द्र॑स्य । व॒वृ॒धे॒ । मिमी॑ते । इत् ॥

सायणभाष्यम्

यज्ञस्य यष्टव्यस्येन्द्रस्य गर्भोगरिता स्तोता गृशब्दे अर्तिगृभ्यांभन् यद्वा यजेर्भावएव नङ्प्रत्ययः यागस्य गर्भोगृहीता अनुष्ठाता देवयुः देवं दाना- दिगुणयुक्तमिन्द्रमात्मनइच्छन् आनुषगनुषक्तं आनुपूर्व्येण संततं यथा भवति तथा क्रतुं प्रज्ञापकं सोमं पुनीते दशापवित्रेण शोधयति इन्द्रपानार्थमि- तिशेषः । यद्वा यज्ञस्य गर्भोदीक्षितः । पुनर्वा एतमृत्विजोगर्भंकुर्वन्तीत्यादिब्राह्मणम् । सदेवकामः क्रतुं ज्योतिष्टोमादिकं आनुषक् आनुपूर्व्यनामैतत् यदाहयास्कः-आनुषगिति नामानुपूर्व्यस्येर्ति । सः स्तोता इन्द्रस्य कर्मणि षष्ठी इन्द्रविषयैः स्तोमैः स्तोत्रैर्ववृधे वर्धते यद्वा वृधिना प्रयोज्यव्यापारवा- चिना प्रयोजक व्यापारो लक्ष्यते । स्तोमैः स्तोत्रैः तमिन्द्रं वर्धयति सच स्तोमैर्मिमीतइत् इन्द्रस्य गुणजातं परिच्छिनत्येव अनुगतार्थो भवतीत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः