मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १२

संहिता

स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्र॒ः सोम॑स्य पी॒तये॑ ।
प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥

पदपाठः

स॒निः । मि॒त्रस्य॑ । प॒प्र॒थे॒ । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ ।
प्राची॑ । वाशी॑ऽइव । सु॒न्व॒ते । मिमी॑ते । इत् ॥

सायणभाष्यम्

मित्रस्य मित्रभूतस्य स्तोतुः सनिर्धनस्य दाता इन्द्रः सोमस्य पीतये पानाय पप्रथे प्रथितोविस्तीर्णशरीरोबभूव यथा पीतोबहुलः सोमउदरेन्त- र्भवति तथा प्रवृद्धशरीरोबभूवेत्यर्थः । तत्र प्रथमे दृष्टांतः-प्राची प्रांचती प्रकर्षेण स्तुत्यगुणगणं प्राप्नुवती वाशीव वाङामैतत् स्तुतिरूपा वाक् सुन्वते । षष्ठचर्थे चतुर्थीवक्तव्येतिचतुर्थी । सुन्वतः सोमाभिषवं कुर्वतोयजमानस्य संबंधिनी यथा स्तुत्यगुणबाहुल्येन दिस्तीर्णाभवति तथेन्द्रः पप्रथइत्यर्थः । प्रथिताच सा मिमीतइत् इन्द्रमाहात्म्यं यथावत्परिच्छिनत्येव ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः