मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १३

संहिता

यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यवः॑ ।
घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥

पदपाठः

यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ ।
घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥

सायणभाष्यम्

विप्रामेधाविनः उक्थवाहसः उक्थानां शस्त्राणां वोढारः प्रापयितारः आयवोमनुष्याः यमिन्द्रं अभिप्रमन्दुः अभि प्रकर्षेण मादयन्ति मदेर्व्यत्ययेन परस्परं द्विर्वचनपरेण छन्दसिवेतिवचनात् द्विर्वचनाभावः । तस्येन्द्रस्य आसनि आस्ये पदृन्नित्यादिना आस्य शब्दस्यासन्नादेशः घृतंन घृतमिव शुद्धं पिप्ये सेचनेन वर्धये प्यायतेश्छान्दसोलिट् लिडचङोश्चेतिपीभावः । किंतद्धविः ऋतस्य यज्ञस्य संबंधि यत्सोमलक्षणं हविरस्ति तदित्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः