उ॒त स्व॒राजे॒ अदि॑ति॒ः स्तोम॒मिन्द्रा॑य जीजनत् ।
पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥
उ॒त । स्व॒ऽराजे॑ । अदि॑तिः । स्तोम॑म् । इन्द्रा॑य । जी॒ज॒न॒त् ।
पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ । ऋ॒तस्य॑ । यत् ॥
उतापिच अदितिरदीनादेवमाता अखंडनीयस्तोतावा स्वराजे स्वयमेव राजमानायेन्द्राय पुरुप्रशस्तं बहुलमुत्कृष्टं यद्वा पुरुभिर्बहुभिः प्रशंसितव्यं स्तोमं स्तोत्रं जीजनत् अजीजनत् अजनयत् । किमर्थं ऊतये रक्षणार्थं यत्स्तोत्रं ऋतस्य सत्यस्य वा संबंधिभवति तं स्तोममित्यन्वयः ॥ १४ ॥