मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १६

संहिता

यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।
यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥

पदपाठः

यत् । सोम॑म् । इ॒न्द्र॒ । विष्ण॑वि । यत् । वा॒ । घ॒ । त्रि॒ते । आ॒प्त्ये ।
यत् । वा॒ । म॒रुत्ऽसु॑ । मन्द॑से । सम् । इन्दु॑ऽभिः ॥

सायणभाष्यम्

हे इन्द्र विष्णवि विष्णौ पानार्थमागतेसति अन्यदीये यागे सोमं यद्यदि तेन विष्णुना सार्धं पिबसि यद्वा यदिच आध्ये अपांपुत्रे त्रिते एतत्संज्ञे राजर्षौ यजमाने सोमं पिबसि घेतिपूरणः यद्वा यदिच मरुत्सुच सोमपानायागतेषु अन्यदीये यज्ञे मन्दसे माद्यसि तथा प्यस्मदीयैरेवेन्दुभिः सोमैः सं सम्यङूमाद्य ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः