मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १७

संहिता

यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से ।
अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥

पदपाठः

यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से ।
अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥

सायणभाष्यम्

हे शक्रेन्द्र परावति परागते दूरदेशे समुद्रे समुन्दनशीले सोमे अधिः सप्तम्यर्थानुवादी यद्वा यदिवा मन्दसे माद्यसि तथापि अस्माकमित् अस्माकमेव सोमेभिषुते सति इन्दुभिः सोमरसैः संरण सम्यग्रमस्व ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः