मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १८

संहिता

यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।
उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥

पदपाठः

यत् । वा॒ । असि॑ । सु॒न्व॒तः । वृ॒धः । यज॑मानस्य । स॒त्ऽप॒ते॒ ।
उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभिः ॥

सायणभाष्यम्

हे सत्पते सतां पालयितरिन्द्र सुन्वतः सोमाभिपवं कुर्वतोयजमानस्य यद्वा यदिवा वृधोसि वर्धयिता भवसि वृधेरन्तर्णीदण्यर्थादिगुपधलक्षणः कः । यस्यच यजमानस्य उक्थे शस्त्रे वा शंसिते सति रण्यसि रमसे एवमपि इन्दुभिरस्मदीयैरेवसोमैः सम्यग्रमस्व ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः