मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १९

संहिता

दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ ।
अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥

पदपाठः

दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । इन्द्र॑म्ऽइन्द्रम् । गृ॒णी॒षणि॑ ।
अध॑ । य॒ज्ञाय॑ । तु॒र्वणे॑ । वि । आ॒न॒शुः॒ ॥

सायणभाष्यम्

हे ऋत्विग्यजमानाः वोयुप्माकमवसे रक्षणाय देवं देवमिन्द्रं इन्द्रं दानादिगुणयुक्तं इन्द्रः बहुषु देशेषु युगपत्प्रवृत्तेषु यागेषु तत्रतत्र हविःस्वीक- रणाय बहूनि शरीराण्याददानः स्वयमेकोप्यनेकःसन् तत्रतत्र सन्निधत्ते तथाचनिगमांतरं-इन्द्रोमायाभिः पुरुरूपईयतइतिम् । तदपेक्षयेयं वीप्सा बहु- विभज्य वर्तमानं सर्वं तमिन्द्रं गृणीषणि अहं स्तौमि गृणातेर्लिङि छान्दसमेतद्रूपम् । यद्वा कारकमेवैतत् गृणीषणि स्तवनेच्छायां सत्यां अधानंतरं सर्वमिन्द्रं मदीयाः स्तुतयः व्यानशुर्व्याप्रुवन्ति किमर्थं तुर्वणे तूर्णं संभजनाय यज्ञाय् यागार्थम् । यद्वा क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाञ्चतु- र्थी । यज्ञं यष्टव्यं तुर्वणे शत्रूणां हिंसितारं तूर्णसंभजनं वा ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः