मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २०

संहिता

य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् ।
होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः ॥

पदपाठः

य॒ज्ञेभिः॑ । य॒ज्ञऽवा॑हसम् । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।
होत्रा॑भिः । इन्द्र॑म् । व॒वृ॒धुः॒ । वि । आ॒न॒शुः॒ ॥

सायणभाष्यम्

यज्ञेभिर्यज्ञैर्यजमानसाधनैर्हविर्भिर्यज्ञवाहसं यज्ञे वोढव्यं प्रापणीयं यज्ञैर्यागैः यज्ञानां यजमानानां फलस्य प्रापयितारं वा अथवा यज्ञवाहसं यज्ञे- नप्राप्यं न केवलमेकेन यज्ञेन अपितु सर्वैरित्याह यज्ञेभिरिति एवं सोमेभिः सोमपातमं सर्वेषां सोमानां पातृनममिन्द्रं होत्राभिः स्तुतिभिः वावृधुः स्तोतारोवर्धनात ताश्र्व क्रियमाणाः स्तुतयः व्यानशुः तमिन्द्रं व्याप्रुवन्तिच अश्रोतेर्व्यत्ययेन परस्मैपदम् ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः