मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २१

संहिता

म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥

पदपाठः

म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।
विश्वा॑ । वसू॑नि । दा॒शुषे॑ । वि । आ॒न॒शुः॒ ॥

सायणभाष्यम्

अस्येन्द्रस्य प्रणीतयः प्रणयनानि धनानां प्रकृष्टप्रापणानि महीर्महत्यः महांति भवन्ति उतापिच अस्य प्रशस्तयः प्रशंसनीयाः कीर्तयः पूर्वीर्ब- ह्व्योविस्तृततमाभवन्ति ताउभयविधाः दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय दातुं विश्वा विश्वानि सर्वाणि वसूनि धनानि व्यानशुर्व्याप्नु- वन्ति ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः