मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २२

संहिता

इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः ।
इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से ॥

पदपाठः

इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ । सम् । ओज॑से ॥

सायणभाष्यम्

देवासोदेवाः वृत्राय हन्तवे वृत्रमावरकमसुरं हंतुं हंतेस्तुमर्थे तवेन्प्रत्ययः इममिन्द्रं पुरोदधिरे पुरस्तात् स्वामित्वेनाधारयन् वाणीः वाण्यः स्तु- तिरूपावाचश्र्व इममेवेन्द्रमनूषत स्तुवन्तिकिमर्थं सं समीचीनाय ओजसे बलर्थं यथा वृत्रवधानुगुणमुत्कृष्टं बलमस्यजायते तथास्तुवन्तीत्यर्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः