मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २३

संहिता

म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् ।
अ॒र्कैर॒भि प्र णो॑नुम॒ः समोज॑से ॥

पदपाठः

म॒हान्त॑म् । म॒हि॒ना । व॒यम् । स्तोमे॑भिः । ह॒व॒न॒ऽश्रुत॑म् ।
अ॒र्कैः । अ॒भि । प्र । नो॒नु॒मः॒ । सम् । ओज॑से ॥

सायणभाष्यम्

महिना महिप्त्रा महान्तं सर्वेभ्योधिकं हवनश्रृतं हवनस्याह्वानस्य श्रोतारमिब्द्रं वयं स्तोमेभिः स्तोमैः त्रिवृत्पञ्चदशादिभिः अर्कैः अर्चनसाधनैः श- स्त्रैश्र्व अभिप्रणोनुमः आभिमुख्येन प्रकर्षेण पुनःपुनः स्तुमः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः