मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २४

संहिता

न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥

पदपाठः

न । यम् । वि॒वि॒क्तः । रोद॑सी॒ इति॑ । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।
अमा॑त् । इत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । सम् । ओज॑सः ॥

सायणभाष्यम्

यं वज्रिणं वज्रवन्तमिन्द्रं रोदसी द्यावापृथिव्यौ नविविक्तः नपृथक्कुरुतः स्वसमीपात् पृथक्कर्तुं नशक्रुतः द्यावापृथिव्यौ व्याप्य यइन्द्रोवर्धते इ- त्यर्थः विचिरूपृथग्भावे अन्तरिक्षाणि अन्तराक्षांतानि द्यावापृथिव्योर्वर्तमानानि गंधर्वादीनां स्थानानिच यन्नपृथक्कुर्वन्ति अस्येन्द्रस्य अमादित् अमति रुजति शत्रूननेत्यमोबलं बलोदेव सर्वं तित्विषेसर्वं जगद्दीत्यते । किमर्थं ओजसः चलस्य संगमाय । यद्वा ओजःशब्दाद्विहितस्य विनो बहुलं- छन्दसीतिलुक् ओजस्विनो बलवतोस्येन्द्रस्येति योज्यम् । समित्युपसर्गः सतित्विषइत्यनेन संवध्यते ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः