मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २७

संहिता

य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।
आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

पदपाठः

य॒दा । ते॒ । विष्णुः॑ । ओज॑सा । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

सायणभाष्यम्

हे इन्द्र ते तव अतुजोदिष्णुर्व्यापनशीलोदेवः ओजसा बलेन यदा यस्मिन्काले त्रीणि पदा पदानि पदत्रयरूपेण त्रीन् लोकान् विचक्रमे विक्रांतवान परिच्छिन्नवान् गतमन्यत् ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः