मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २९

संहिता

य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे ।
आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

पदपाठः

य॒दा । ते॒ । मारु॑तीः । विशः॑ । तुभ्य॑म् । इ॒न्द्र॒ । नि॒ऽये॒मि॒रे ।
आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

सायणभाष्यम्

हे इन्द्र तुभ्यं त्वदर्थं मारुतीर्मारुत्यः मरुद्रूपाः ते त्वदीयाः विशः प्रजाः यदा यस्मिन्काले नियेमिरे नियच्छन्ति भूतजातानि । अन्यद्रतम् ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः