मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ३१

संहिता

इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभि॑ः ।
जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥

पदपाठः

इ॒माम् । ते॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । विप्रः॑ । इ॒य॒र्ति॒ । धी॒तिऽभिः॑ ।
जा॒मिम् । प॒दाऽइ॑व । पिप्र॑तीम् । प्र । अ॒ध्व॒रे ॥

सायणभाष्यम्

हे इन्द्र विप्रोमेधावी स्तोता अध्वरे यज्ञे इमां पुरोवर्तिनीं पिप्रतीं पूजयन्तीं प्रीणयन्तीं वा सुष्टुतिं शोभनां स्तुतीं धीतिभिः कर्मभिः कर्मभिः परिचरणैः सार्धं ते त्वां प्रेयर्ति प्रेरयति प्रगमयति । जामिं पदेव यथा बंधुभूतं पुरुषं उत्कृष्टानि पदानि स्थानानि प्रापयति तद्वत् ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः