मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ३२

संहिता

यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।
नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥

पदपाठः

यत् । अ॒स्य॒ । धाम॑नि । प्रि॒ये । स॒मी॒ची॒नासः॑ । अस्व॑रन् ।
नाभा॑ । य॒ज्ञस्य॑ । दो॒हना॑ । प्र । अ॒ध्व॒रे ॥

सायणभाष्यम्

अध्वरे यज्ञे अस्येन्द्रस्य धामनि स्थाने तेजसि वा प्रिये प्रीणयितव्ये सति समीचीनासः संगताः स्तोतारः यद्यदा प्रास्वरन् प्रकर्षेणास्तुवन् स्वृ- शब्दोपतापयोः । अयाळिन्द्रस्यप्रियाधामानीतिहिनिगमः । कस्मिन्देशे नाभा नाभौ पृथिव्या नाभिस्थानीये मध्ये यज्ञस्य यजनसाधनस्य सोमस्य दोहना दोहने दोहनाधिकरणेभिषवस्थाने वेद्यामित्यर्थः तदानीं धनं प्रदेहीति उत्तरत्र संबंधः ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः