मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १

संहिता

इन्द्र॑ः सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म् ।
वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥

पदपाठः

इन्द्रः॑ । सु॒तेषु॑ । सोमे॑षु । क्रतु॑म् । पु॒नी॒ते॒ । उ॒क्थ्य॑म् ।
वि॒दे । वृ॒धस्य॑ । दक्ष॑सः । म॒हान् । हि । सः ॥

सायणभाष्यम्

सोमेषु सुतेष्वभिषुतेषु सत्सु इन्द्रस्तान्पीत्वा क्रतुं कर्मणां कर्तारं उक्थ्यं स्तोतारंच् पुनीते शोधयति । यद्वा सोमेष्वभिषुतेषु उक्थ्यारव्यं क्रतुं यागं तैः सोमैः पुनीते यजमानैः पूतं कारयति । किमर्थं वृधस्य वर्धकस्य दक्षसोबलस्य विदे लाभाय सतादृशइन्द्रोमहान् हि महान् ख्लु अतएवं कर्तुं शक्रोतीतिभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः