मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २

संहिता

स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः ।
सु॒पा॒रः सु॒श्रव॑स्तम॒ः सम॑प्सु॒जित् ॥

पदपाठः

सः । प्र॒थ॒मे । विऽओ॑मनि । दे॒वाना॑म् । सद॑ने । वृ॒धः ।
सु॒ऽपा॒रः । सु॒श्रवः॑ऽतमः । सम् । अ॒प्सु॒ऽजित् ॥

सायणभाष्यम्

सइन्द्रः प्रथमे प्रथिते विस्तीर्णे मुख्ये वा व्योमनि विशेषेणरक्षके देवानां सदने सीदंत्यस्मिश्निति सदनं स्थानं स्वर्गाख्यं तत्र स्थितः सन् वृधोयजमानानां वर्धयिता भवति । तथा सुपारः सुष्ट् पारयिता प्रारब्धस्य सम्यक्परिसमापयिता सुश्रवस्तमः अतिशयेन शोभनं श्रवोन्नं यशोवा यस्य सतथोक्तः समप्सुजित् सम्यक् अप्सूदकेषु प्राप्येषु सत्सु तद्विघातिनोवृत्रादेर्जेता यद्वा आपइत्यंतरिक्षनाम अंतरिक्षे वर्तमानानामसुराणां जेता तमह्वइत्युत्तरत्रसंबंधः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः