मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ३

संहिता

तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा॑य शु॒ष्मिण॑म् ।
भवा॑ नः सु॒म्ने अन्त॑म॒ः सखा॑ वृ॒धे ॥

पदपाठः

तम् । अ॒ह्वे॒ । वाज॑ऽसातये । इन्द्र॑म् । भरा॑य । शु॒ष्मिण॑म् ।
भव॑ । नः॒ । सु॒म्ने । अन्त॑मः । सखा॑ । वृ॒धे ॥

सायणभाष्यम्

तं पूर्वोक्तगुणं शुष्मिणं बलवंत्तमिन्द्रं वाजसातये बलानामन्नानां वा सातिर्लाभोयस्मिन् तादृशाय भराय संग्रामाय यद्वा भ्रियंते तस्मिन् हवींषीति भरोयज्ञः प्रायेण संग्रा मनामानि यज्ञानामत्वेन च दृश्यंते भराय यज्ञार्थं अह्वे आह्वये । लिपिसिचिह्वश्च आत्मनेप- देष्वन्यतरस्यामिति ह्वयतेश्छान्दसे लुङि च्लेरङादेशः । हे इन्द्र त्वं सुम्त्रेसुखे धनेवा लिप्सिते सति नोस्माकं अंतमः अंतिकतमः सन्नि- कृष्टतमोभव । तमेतादेश्चेति अन्तिकशब्दस्य तादिलोपः । तथा वृधे वर्धनार्थं च सरवा समानख्यानोमित्रभूतोभव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः