मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ५

संहिता

नू॒नं तदि॑न्द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वन्त॒ ईम॑हे ।
र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद॑म् ॥

पदपाठः

नू॒नम् । तत् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ । यत् । त्वा॒ । सु॒न्वन्तः॑ । ईम॑हे ।
र॒यिम् । नः॒ । चि॒त्रम् । आ । भ॒र॒ । स्वः॒ऽविद॑म् ॥

सायणभाष्यम्

हे इन्द्र नूनमवश्यं तद्धनं नोस्मभ्यं दद्धि ददस्व दददाने व्यत्ययेन परस्मैपदम् छांदसशपोलुक् । यद्धनं त्वा त्वां सुन्वंतः सोमम- भिषुण्वंतोवयं ईमहे । अपिच चित्रं चायनीयं स्वर्विदं सर्वस्य लंभकं यद्वा स्वर्गस्य वेदितारं आस्तिकं रयिं पुत्रं नोस्मभ्यमाभराहर ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः